(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.144. अध्यायः 144
Mahabharata - Udyoga Parva - Chapter Topics
विदुरेण कुन्तीसमीपे युद्धे बहुवीरविनाशानुचिन्तनेन शोचनम् ॥ 1 ॥ कर्णपराक्रमभीतया कुन्त्या पाण्डवान्प्रति तन्मनःप्रसादनेच्छया गङ्गातीरे कर्णसमीपगमनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-144-0x(3809)(36738)
असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते।
अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ॥ 5-144-1(36739)
जानासि मे जीवपुत्री भावं नित्यमविग्रहे ।
क्रोशतो नच गृह्णीते वचनं मे सुयोधनः ॥ 5-144-2(36740)
उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः ।
भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि ॥ 5-144-3(36741)
उपप्लाव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः।
काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा॥ 5-144-4(36742)
राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति।
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ॥ 5-144-5(36743)
जयद्रथस्य कर्णस्य तथा दुःशासनस्य च।
सौबलस्य च दुर्बुद्ध्या मिथो भेदः प्रपत्स्यते । 5-144-6(36744)
अधर्मेम हि धर्मिष्ठं ह्रियते राज्यमीदृशम्।
येषां तेषामयं धर्मः सानुबन्धो भविष्यति ॥ 5-144-7(36745)
क्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत्।
असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ॥ 5-144-8(36746)
ततः कुरूणामनयो भविता वीरनाशनः।
चिन्तयन्न लभे निद्रामहःसु च निशासु च॥ 5-144-9(36747)
श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम्।
सा निःश्वसन्ती दुःखार्ता मनसा विममर्श ह ॥ 5-144-10(36748)
धिगस्त्वर्थं यत्कृतेयं सुमहाञ्ज्ञातिसंक्षयः।
वर्त्स्यते सुहृदां चैव युद्धेऽस्मिन्वै पराभवः ॥ 5-144-11(36749)
पाण्डवाश्चेदिपञ्चाला यादवाश्च समागताः।
भारतैः सह योत्स्यन्ति किं नु दुःखमतःपरम्॥ 5-144-12(36750)
पश्ये दोषं ध्रुवं युद्धे तथाऽयुद्धे पराभवम् ।
अधनस्य मृतं श्रेयो न हि ज्ञातिक्षयो जयः।
इति मे चिन्तयन्त्या वै हृदि दुःखं प्रवर्तते ॥ 5-144-13(36751)
पितामहः शान्तनव आचार्यश्च युधां पतिः।
कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ॥ 5-144-14(36752)
नाचार्यः कामवाञ्शिष्यैद्रौणोयुद्ध्येत जातुचित्।
पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः । 5-144-15(36753)
अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः।
मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ॥ 5-144-16(36754)
महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः।
कर्णः सदा पाण्डवानां तन्मे दहति संप्रति ॥ 5-144-17(36755)
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति ।
ग्रसादयितुमासाद्य दर्शयन्ती यथातथम् ॥ 5-144-18(36756)
तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ ।
आह्वानं मन्त्रसंयुक्तं वसन्त्याः पितृवेश्मनि ॥ 5-144-19(36757)
साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता ।
चिन्तयन्ती बहुविधं हृदयेन विदूयता ॥ 5-144-20(36758)
बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् ।
स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः ॥ 5-144-21(36759)
धात्र्या विस्रब्धया गुप्ता सखीजनवृता तदा।
दोषं परिहरन्ती च पितुश्चारित्र्यरक्षिणी ॥ 5-144-22(36760)
कथं नु सुकृतं मे स्यान्नापराधवती कथम्।
भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च ॥ 5-144-23(36761)
कौतूहलात्तु तं लब्धा बालिश्यादाचरं तदा।
कन्या सती देवमर्कमासादयमहं ततः ॥ 5-144-24(36762)
योऽसौ कानीनगर्भो मे पुत्रवत्परिरक्षितः ।
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ॥ 5-144-25(36763)
इति कुन्ती विनिश्चित्य कार्यनिश्चयमुत्तमम् ।
कार्यार्थमभिनिश्चित्य ययौ भागीरथीं प्रति॥ 5-144-26(36764)
आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः ।
गङ्गातीरे पृथापश्यञ्जपस्थानमनुत्तमम् ॥ 5-144-27(36765)
प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः।
जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ॥ 5-144-28(36766)
अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि।
कौरव्यपत्नी वार्ष्णेयी मद्ममालेव शुष्यती ॥ 5-144-29(36767)
आपृष्ठतापाञ्जप्त्वा स परिवृत्त्य यतव्रतः ।
दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ॥ 5-144-30(36768)
यथान्यायं महातेजा मानी धर्मभृतां वरः ।
उत्स्मयन्प्रणतः प्राह कुन्तीं वैकर्तनो वृषः ॥ ॥ 5-144-31(36769)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-144-8 बलाद्धर्मे पास्वण्डिनां पारदार्यं उभयसंतोषकरमिति द्वयोरपि धर्महेतुरिति बलात्कल्पना शास्त्रबहिर्भूता तद्वदयमपीत्यर्थः ॥ 5-144-10 अर्थकामेन हितकामेन ॥ 5-144-13 पश्ये पश्यामि। आर्षमात्मनेपदम् ॥ 5-144-24 आचरं तेन मन्त्रेण देवतावाहनाख्यं कार्यं कृतवती ॥ 5-144-29 उत्तरवाससि उत्तरीयवस्त्रच्छायायाम् ॥ 5-144-30 आपृष्ठतापादपराह्णपर्यन्तमित्यर्थः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.